|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.8. अध्यायः 008
Mahabharata - Vana Parva - Chapter Topics
तदा समागतेन व्यासेन धृतराष्ट्रंप्रति पाण्डवैः सह विरोधस्यानर्थहेतुत्वकथनपूर्वकं तैः सह शमविधानम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
व्यास उवाच। 3-7-0x(1790)(15948)
धतराष्ट्र महाप्राज्ञ निबोध वचनं मम।
वक्ष्यामि त्वां कौरवाणां सर्वेषां हितमुत्तमम् ॥ 3-7-1(15949)
न मे प्रियं महाबाहो यद्गताः पाण्डवा वनम्।
निकृत्त्या निकृताश्चैव दुर्योधनपुरोगमैः ॥ 3-7-2(15950)
ते स्मरन्तः परिक्लेशान्वर्षे पूर्णे त्रयोदशे।
विमोक्ष्यन्ति विषं क्रुद्धाः कौरवेयेषु भारत ॥ 3-7-3(15951)
तदयं किंनु पापात्मा तव पुत्रः सुमन्दधीः।
पाण्डवान्नित्यसंक्रुद्धो राज्यहेतोर्जिघांसति ॥ 3-7-4(15952)
वार्यतां साध्वयं मूढः शमं गच्छतु ते सुतः।
वनस्थांस्तानयं हन्तुमिच्छन्प्राणान्विमोक्ष्यति ॥ 3-7-5(15953)
यथाऽऽह विदुरः प्राज्ञो यथा भीष्मो यथा वयम्।
यथा कृपश्च द्रोणश्च तथा साधु विधीयताम् ॥ 3-7-6(15954)
विग्रहो हि महाप्राज्ञ स्वजनेन विगर्हितः।
अधर्म्यमयशस्यं च मा राजन्प्रतिपद्यथाः ॥ 3-7-7(15955)
समीक्षा यादृशी ह्मस्य पाण्डवान्प्रति भारत।
उपेक्ष्यमाणा सा राजन्महान्तमनयं व्रजेत् ॥ 3-7-8(15956)
अथवाऽयं सुमन्दात्मा वनं गच्छतु ते सुतः।
पाण्डवैः सहितो राजन्नेक एवासहायवान् ॥ 3-7-9(15957)
ततः संसर्गजः स्नेहः पुत्रस्य तव पाण्डवैः।
यदि स्यात्कृतकृत्यस्त्वं भवेथाः पुरषर्षभ ॥ 3-7-10(15958)
अथवा जायमानस्य यच्छीलमनुजायते।
श्रूयते तन्महाराज नामृतस्यापसर्पति ॥ 3-7-11(15959)
कथं वा मन्यते भीष्मो द्रोणोऽथ विदुरोपिवा।
भवान्वाऽत्र परं कार्यं पुरा चार्थो निवर्तते ॥ 3-7-12(15960)
इति श्रीमन्महाभारते अरण्यपर्वणि किर्मीरवधपर्वणि अष्टमोऽध्यायः ॥ 8 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-7-2 निकृताः निर्जिताः ॥ 3-7-3 विषमिव विषं शस्त्रम् ॥ 3-7-8 समीक्षा विचारपूर्विका बुद्धिः ॥ 3-7-11 एतदपि दुर्घटमित्याह अथवेति ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|